|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.327. अध्यायः 327
Mahabharata - Shanti Parva - Chapter Topics
आसुरिंप्रति कपिलेन व्यक्ताव्यक्ततावनिरूपणम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
`कपिल उवाच। 12-327-0x(6532)(78720)
यद्भवानाह किं व्यक्तिं किमव्यक्तमिति अत्र ब्रूमः॥ 12-327-1(78721)
अव्यक्तमग्राह्यमतर्क्यमपरिमेयमव्यक्तं व्यक्तमुपलक्ष्यते यथर्तवो मूर्तयस्तेषु पुष्पफलैर्व्यक्तिरुपलक्ष्यते तद्वद्व्यक्तगुणैरुपलक्ष्यते॥ 12-327-2(78722)
प्राग्गतं प्रत्यग्गतमूर्ध्वमधस्तिर्यक्च शतश्चानुग्राह्यत्वात्साऽकृतिः॥ 12-327-3(78723)
व्यक्त उत्तमो रजः सत्वं तत्प्रधानं तत्वमक्षमजरमित्येवमादीन्यव्यक्तनामानि भवन्ति।
एवमाह॥ 12-327-4(78724)
अव्यक्तं बीजधर्माणं महाग्राहमचेतनम्।
तस्मादेकगुणो जज्ञे तद्व्यक्तं तत्वमीश्वरः॥ 12-327-5(78725)
तदेतदव्यक्तम्। प्रस्नवा घारणादानस्वभावमापोधारणे प्रजनने दाने गुणानां प्रकृतिः सपराप्रमत्तं तदेतदस्मिन्कार्यकरणे॥ 12-327-6(78726)
यदप्युक्तं किमव्यक्तमिति तत्र ब्रूमः। व्यक्तं नामाऽऽसुरे यत्पूर्वमव्यक्तादुत्पन्नतत्वमीश्वरमप्रतिबुद्धगुणस्यगेतत्पुरुषसंज्ञिकं महदित्युक्तं बुद्धिरिति च। सत्ता स्मृतिर्धृतिर्मेधा व्यवसायः समाधिप्राप्तिरित्येवमादीनि व्यक्तपर्याये नामानि वदन्त्येवमाह॥ 12-327-7(78727)
मम व्यक्तादुपात्तासिद्धिरागता संयमश्च महद्यतः।
परसर्गश्च दीप्त्यर्थमौत्सुक्यं च परं तथा॥ 12-327-8(78728)
यदेषोर्ध्यस्रोताभिर्महत्वादप्रतिबुद्धत्वाच्चात्मनः यकरोत्यहंकारमव्यक्ताव्यक्ततरम्॥ 12-327-9(78729)
यदप्युक्तं किमव्यक्ततरमिति अत्र ब्रूमः॥ 12-327-10(78730)
व्यक्ताव्यक्ततरं नाम तृतीयं पुरुषसंज्ञकम्।
तदेतदुभयोर्विरिञ्चवैरिञ्चयोरेकैक उत्पत्तिः॥
विरिञ्चोऽभिमानिन्यविवेक ईर्ष्या कामः क्रोधो लोभो मदो दर्पो ममकारश्चैतान्यहंकारपर्यायनामानि भवन्त्येवमाह॥ 12-327-11(78731)
अहं कर्तेत्यहंकर्ता ससृजे विश्वमीश्वरः।
तृतीयमेनं पुरुषमभिमानगुणं विदुः॥ 12-327-13(78732)
अहंकाराद्युगपदुन्मादयामास पञ्च महाभूतानि शब्दस्पर्शरूपरसगन्धलक्षणानि। तान्येव बुद्ध्यन्त इत्येवमाह॥ 12-327-14(78733)
भूतसङ्घमहङ्काराद्यो विद्वानवबुध्यसे।
अभिमानमतिक्रम्य महान्तं प्रतितिष्ठते॥ 12-327-15(78734)
भूतेषु चाप्यहंकारमश्वरूपस्तथोच्यते।
पुनर्विषयहेत्वर्थे स मनस्संज्ञकः स्मृतः॥
विखराद्वैखरं युगपदिन्द्रियैः सहोत्पादयति। श्रोत्रं घ्राणं चक्षुर्जिह्वा त्वगित्येतानि शब्दस्पर्शरूपरसगन्धानवबुध्यन्त इति पञ्च बुद्धीन्द्रियाणि वदन्त्येवमाहुराचार्याः॥
वाग्घस्तौ पादपायुरानन्दश्चेति पञ्चेन्द्रियाणि विशेषमादित्योश्वीनि नक्षत्राणीत्येतानीन्द्रियाणां पर्यायनामानि वदन्त्येवमाह॥ 12-327-16(78735)
अहंकारात्तथा भूतान्युत्पाद्य महदात्मनोः।
वैखरत्वं ततो राज्ञा वैखर्यो विषयात्मकः॥ 12-327-19(78736)
विकारस्थमहंकारमवबुध्याथ मानवः।
महदैश्वर्यमाप्नोति यावदाचन्द्रतारकम्॥' ॥ 12-327-20(78737)
इति श्रीमन्महाभारते शान्तिपरर्वणि मोक्षधर्मपर्वणि सप्तविंशत्यधिकत्रिशततमोऽध्यायः॥ 327॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|